संदेश

परिहासः

काचित् महिला प्रतिवेशिनीं मेलनार्थं अगच्छत्। एकघण्टा यावत् मिथः चर्चां अकुरुताम्।चायपानादिकं समाप्य महिला अवदत्----- हे भगिनी  वैद्यमहोदयः मां कोरोनाविषाणुबाधाकारणात्  14दिनपर्यंतं विलगीकरणकक्षे स्थापयन्नस्ति अतः अहं विचारम् अकरवम् एकवारं सर्वाभिः सखिभिः सह मिलित्वा गच्छामि।🙆‍♀️ इत्युक्त्वा ततः सा निर्गतवती।😆 😜🤭

परिहासः

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻 प्रातः पतिः पत्नीम् उत्थापयति। पतिः --प्रिये, उत्तिष्ठतु भवती। आवां योगप्रवर्गं गच्छावः। पत्नी --किं भवान् माम् एतावतीं  स्थूलां भावयति वा? पतिः -- तथा नास्ति भोः। योगः आरोग्यार्थं स्फूर्त्यर्थम् आवश्यकः। पत्नी --तर्हि अहम् रोगिणी, इति भवान् वक्तुमिच्छति? पतिः --अस्तु।यदि भवती नैव उत्थातुमिच्छति तर्हि... पत्नी --एतस्य कः अर्थः? भवान् माम् अलसाम् इति भावयति? पतिः --पश्यतु अधुना..। एषः विपरीतावगमः ....।   पत्नी --हे भगवन् !! तर्हि अहं बुद्धिहीना खलु? एतावन्ति वर्षाण्यतीतानि अस्माकं विवाहस्य ...तथापि भवान् वदति यत् अहं भवन्तं न जानामि ; एषः मम  विपरीतावगमः? पतिः --तथा अहं कदा उक्तवान् भोः? पत्नी --तर्हि अहं किम् असत्यवादिनी? पतिः  --भवतु नाम! प्रातः एव किमर्थं विवादः?? पत्नी --तर्हि अहमेव वादप्रिया?अहमेव?? भवान् मां कलहशीलां भावयति?? पतिः --अस्तु। अहं न गच्छाम्येव।  मास्तु योगः। पत्नी --पश्यतु अधुना। भवान् गन्तुमेव नेच्छति स्म। केवलं मम मस्तके दोषारोपणम् इच्छति स्म। पतिः --अस्तु मातः,अहमेकः एव गच्छामि। भवती निद्रातु सुखेन। पत्नी  --गच...

सौकर्यं याचने भवेत्

चित्र
एकदा भिक्षुकः कश्चित् सखायं भिक्षुमाह यत् । यति ते लाटरी-लाभो भवेत् तत्किं करिष्यसि ।। तस्य तद्वचनं श्रुत्वा सखा तम्प्रत्युवाच यत् । एकं स्कूटरयानं तु प्रथमं क्रेष्यते यतः ।। पदातिना महत्कष्टं भिक्षायामधिगम्यते । स्कूटरेण तु सौकर्यं याचने सम्भविष्यति ।। ===============================   वेबसाइट--- www.vaidiksanskritk.com www.shishusanskritam.com संस्कृत नौकरियों के लिए--- www.facebook.com/sanskritnaukari आयुर्वेद और हमारा जीवनः-- www.facebook.com/aayurvedjeevan चाणक्य-नीति पढें--- www.facebook.com/chaanakyaneeti वैदिक साहित्य की जानकारी प्राप्त करें--- www.facebook.com/vaidiksanskrit www.facebook.com/shabdanu लौकिक साहित्य पढें--- www.facebook.com/laukiksanskrit आर्ष-साहित्य और आर्य विचारधारा के लिए www.facebook.com/aarshdrishti सामान्य ज्ञान प्राप्त करें--- www.facebook.com/jnanodaya संस्कृत सीखें--- www.facebook.com/shishusanskritam संस्कृत निबन्ध पढें---- www.facebook.com/girvanvani संस्कृत काव्य का रसास्वादन करें--- www.facebook.com/kavyanzali संस्कृत सूक्ति पढे...