परिहासः

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻

प्रातः पतिः पत्नीम् उत्थापयति।

पतिः --प्रिये, उत्तिष्ठतु भवती। आवां योगप्रवर्गं गच्छावः।

पत्नी --किं भवान् माम् एतावतीं  स्थूलां भावयति वा?

पतिः -- तथा नास्ति भोः। योगः आरोग्यार्थं स्फूर्त्यर्थम् आवश्यकः।

पत्नी --तर्हि अहम् रोगिणी, इति भवान् वक्तुमिच्छति?

पतिः --अस्तु।यदि भवती नैव उत्थातुमिच्छति तर्हि...

पत्नी --एतस्य कः अर्थः? भवान् माम् अलसाम् इति भावयति?

पतिः --पश्यतु अधुना..। एषः विपरीतावगमः ....।  

पत्नी --हे भगवन् !! तर्हि अहं बुद्धिहीना खलु? एतावन्ति वर्षाण्यतीतानि अस्माकं विवाहस्य ...तथापि भवान् वदति यत् अहं भवन्तं न जानामि ; एषः मम  विपरीतावगमः?

पतिः --तथा अहं कदा उक्तवान् भोः?

पत्नी --तर्हि अहं किम् असत्यवादिनी?

पतिः  --भवतु नाम! प्रातः एव किमर्थं विवादः??

पत्नी --तर्हि अहमेव वादप्रिया?अहमेव?? भवान् मां कलहशीलां भावयति??

पतिः --अस्तु। अहं न गच्छाम्येव।  मास्तु योगः।

पत्नी --पश्यतु अधुना। भवान् गन्तुमेव नेच्छति स्म। केवलं मम मस्तके दोषारोपणम् इच्छति स्म।

पतिः --अस्तु मातः,अहमेकः एव गच्छामि। भवती निद्रातु सुखेन।

पत्नी  --गच्छतु,गच्छतु एकः एव। तथा तु भवान् एकाकी एव आनन्दम् उपभुङ्क्ते। कदापि मम विचारः एव नास्ति।

पतिः -- मम मस्तकस्य घूर्णनम् आरब्धम्। मूर्छना आगता।

पत्नी --आगच्छेदेव। स्वार्थी अस्ति भवान्। केवलं स्वपरिमितमेव चिन्तयति।पत्न्याः आरोग्यस्य चिन्तैव नास्ति। घूर्णनं तु भवेदेव।

पतिः 😷🤐।
पत्न्याः निद्रा 😴।

पतिः (स्वगतम्) --मम कः प्रमादः जातः भोः?😔☹🤔

पतिभवनं नैव सुखदायकम्।

😃😃😃😂😂🤣🤣🤣🤣🤣

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

परिहासः

सौकर्यं याचने भवेत्